________________
१४२
प्राचा प्रदी.
११-१२RSS५११८९६२-६२
शारीरमानसस्य तदुपादानस्य वा कर्मणः कुशला-निपुणास्तदपनोदोपायवेदिन:सन्तस्ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इति कम्मं परिण्णाय'त्ति इत्येवं पूर्वोक्तया नीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशः-सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति ॥ १३५ ॥ __यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह___ इह आणाकंखी पंडिते अणिहे एगमप्पाणं सपेहाए धुणे सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं । जहा जन्नाई कटाई हव्ववाहो पमत्थति एवं अत्तसमाहिते अणिहे।
विगिंच कोहं अविकंपमाणे (सू. १३६) 'इह आणाकंखी'ति इह-अस्मिन् प्रवचने आज्ञामाकाङिक्षतुं शीलमस्येत्याज्ञाकाङ्क्षी-सर्वज्ञोपदेशानुष्ठायी यश्चैवम्भूतः | स पण्डितो-विदितवेद्यः, 'अणिहे' स्निह्यते श्लिष्यतेऽष्टप्रकारेण कर्मणा इति स्निहो न स्निहोऽस्निहः । यश्चैवम्भूतः स किं कुर्यादित्याह- एगमप्पाणं'ति सोऽस्निह आत्मानमेकंधनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं संप्रेक्ष्य-पर्यालोच्य 'धुणे सरीरं' धुनीयाच्छरीरकं, सम्भावने सप्तमी, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एवं शरीरविधृननमिति, किश्च-'कसेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत्कष्टतपश्चरणादिना कृशं कुरू तथा जरी-शरीरकं जरीकुरू, तपसा तथा
१ एतत्-बृ० ।
96%BEIGE ROSHEGHOSSOS
॥२५६॥