SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी ० स्यात्-लोके[न] केचन विद्वांसः सन्ति ? तेभ्योऽधिकः' स्यादित्यत आह- 'अणुवी 'ति ये केचन लोके निक्षिप्तदण्डाः निश्चयेन क्षिप्तो निक्षिप्तः परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य - पर्यालोच्य पश्य अवगच्छ । के चोपरतदण्डा इत्यत आह- 'जे केइ सत्ता पलियं 'ति ये केचनावगतधर्माणः सत्वाः- प्राणिनः पलितमिति कर्म तत्यजन्ति ये चोपरतदण्डा भूत्वाप्रकारं कर्म घ्नन्ति ते विद्वांसः, के पुनः शेषकर्मक्षयं कुर्वन्तीत्याह-'णग मुतच्चा' नराः - मनुष्यास्त एवाशेषकर्मक्षयायालं नाऽन्ये, तेऽपि न सर्वेऽपि तु मृताचः, मृतेव संस्काराभावादच शरीरं येषां ते मृतार्चा, निःप्रतिकर्मशरीरा इत्यर्थः किञ्च - 'धम्मविदु'त्ति धर्मं श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतोर्यत * एव धर्मविदो एव ऋजवः - कौटिल्यरहिताः । किमालम्ब्यैतद्विधेयमित्याह - 'आरंभजं दुक्खमिणं' ति सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजं, किं तद् ? दुःखमिति सकलप्राणिप्रत्यक्षं, तथाहि -कृषिसेवावाणिज्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमतः प्रत्यक्षाभिधायिनेदमोक्तं" इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृताच धर्मविद ऋजवव भवन्तीति । एतच समस्तवेदिनो भाषन्त इति दर्शयति- 'एवमाहु सम्मनदंसिणो' एवं पूर्वोक्तप्रकारेणाहुरुक्तवन्तः, के एवमाहुः ? समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, कस्मात्त ऊचुरित्याह- 'ते सव्वे 'त्ति यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाःप्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिकाः- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य १ येभ्योऽधिकः पृ० । २ हेतौ यत ब० । ३० गोचर अतः पा० ४ ०दमुक्तम्- पा० । १।४।३ ॥२५५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy