________________
45
आचा०
શષ્ટ રૂ
प्रदी.
॥ श्रीसम्यक्त्वाध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकै परमतव्युदासेन सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्योद्देशकस्यादिसूत्रम्
उवहेणं बहिता य लोकं । से सव्वलोकंसि जे केइ विष्णू । अणुवियि पास णिक्खित्तदंडा जे केइ सत्ता पलियं चयंति णरा मुतचा धम्मविदु त्ति अंजू आरंभ दुक्खमिणं ति णचा ।
एवमाहु सम्मत्तदंसिणो। ते सव्वे पावादिया दुक्खस्स कुसला परिण्णमुदाहरंति इति कम्मं । परिण्णाय सव्वसो (सू. १३५)
'उवेहेणं'ति योऽयमनन्तरं प्रतिपादितः पापण्डिलोक एनं धर्माबहिर्व्यवस्थितमुपेक्ष स्व-तदनुष्ठानं मा अनुमंस्थाः , च शब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवनादिकं मा कृथाः । यः पापण्डिलोकोपेक्षकः स के गुणमवाप्नुयादित्याह-'से सबलोकंसि' यः पापण्डिलोकमनार्यवचनमवगम्य तदपेक्षां विधत्ते स सर्वस्मिन् [लोके]-मनुष्यलोके ये केचन विद्वांसस्तेभ्योऽग्रणीविद्वत्तमः ।
SPECRE-८२२१-२२-१२-२
॥२५४॥