________________
भाचा प्रदी०
१।४।२
REGISTRIEGESCHICHA!
माह-पत्तेयं पुच्छिस्सामो' एकमेकं प्रति प्रत्येक भोः प्रावादुकाः। भवतः प्रश्नयिष्याभि, कि 'भे' युष्माकं सात-मनआहादकारि दुःखमुतासातं मनःप्रतिकूलं ? एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रयुः ततः प्रत्यक्षागमलोकबाधा स्याद् अथाऽसातमित्येवं ब्रयुस्ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने सम्भाव्यते एतद्भणनं-[यथा] न केवलं भवतां दुःखमसातं, सर्वेषामपिं प्राणिनां दुःखमसातं मनसोऽनभिप्रेतं 'अपरिनिव्वाणं' -अनिवृत्तिरूपं महद्भयमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्वधेन' च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१३४॥
॥ श्रीसम्यक्वाध्ययनस्य द्वितीयोदेशकप्रदीपिका समाप्ता॥ .
卐
मा०२२
१-तद्धनने-च ब०।
॥२५३॥