________________
आचा०
१।४२
प्रदी०
ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह च-'तत्थ जे ते आरिया ते एवं वयासी' तत्रेति वाक्योपन्यासे, ये ते आर्या देश-भाषा-चारित्रार्यास्त एवमवादिषुर्यथा तद्यदनन्तरोक्तं दुईष्टमेतद् युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितम् । तदेवं दुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह-'जं णं तुम्भे एवमाचक्खह' 'णं' वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्रप्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्ध इति ।
तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति-'वयं पुण एवमाचिक्खामो' पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयामः-सर्वे प्राणा न हन्तव्या इत्यादि, 'एत्थ वि जाणह' अत्राप्यस्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ यूयं यथाऽत्र हननादिप्रतिषेधविधौ नास्ति दोष:पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोपः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत् । ___ एवमुक्ते सति ते पापण्डिका ऊचुः भवदीयमार्यवचनमस्मदीयमनायवचनमित्येतन्निरन्तराः सुहृद प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानायता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुव्यं निकाय'ति पूर्वमादावेव समयम्-आगमं यद्यदीयागमेऽभिहितं तत् निकाच्य-व्यवस्थाप्य पुनस्तद्वि रूपापादनेन परमतानार्यता प्रतिपाद्यत्वतस्तदेव परमतं प्रश्नयति, यदिवा पूर्व प्राश्निकानिकाच्य ततः पाषण्डिकान् प्रश्नयितु
ISASTISEASE
SS
॥२५२॥