________________
आचा
१।४।२
प्रदी०
'आवंती' यावन्तः 'केआवन्तीति केचन लोके-मनुष्यलोके श्रमणाः पाषण्डिकाः [ब्राह्मणाः-] द्विजातयः' पृथक्पृथम् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति-यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, श्रमणा ब्राह्मणा वा यद्विरुद्धवादं वदन्ति तत्सूत्रणव दर्शयति-'से दिटुं च णे' 'सेति तच्छब्दार्थे, यदहं वक्ष्ये तत् दृष्टम्-उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं सम्बन्धिना तीर्थकृता आगमप्रणायकेन श्रुतं, चाऽस्माभिमुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्-अभिमतं युक्तियुक्तवादस्माकमस्मत्तीर्थकराणां वा 'विन्नायं च मे विज्ञातं च तत्वभेदपर्यायैरस्माभिरस्मत्तीर्थ करेण वा, स्वतो न परोपदेशदानेन एतच्चोर्धाधस्तियक्षु दशस्वपि दिक्षु सर्वतः सर्वैः-प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च-पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह-'सम्वे पाणा' सो प्राणा: स जीवाः स भूताः सो सत्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्या: परितापयितव्या अपद्रापयितव्याः, 'एत्थ विजाणह' अत्रापि-धर्मचिन्तायामप्येवं जानीथ', यथा नास्त्यत्र यागार्थ देवतोपयाचिकतया वा प्राणिहननादौ दोषः-पापानुबन्ध, एवं यावन्तः केचन पापण्डिका औदेशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्ध वा वादं भाषन्ते । अयं च जीवापमईकवावापानुबन्धी अनार्यप्रणीत इति, आह-'अणारियवयमेयं ति आराधाता: सर्वहेयधर्मेभ्य इत्यार्यास्तद्विपर्यासादनार्याः क्रूरकर्माणस्तेषां प्राण्युपधातकारीदं वचनम् ।
AAAAAAAAAEES
१ द्विजावः-मुः। २ जानीथाः-पा. ।
॥२५॥