SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० १४।२ यथा च ज्ञानी धमायटे तपादर्शयति--'अट्टावि संतेति विज्ञान प्राप्ता धर्म कथ्यमानं कुतथिन्निमित्तादार्ता अपि सन्तः चिलातिपुत्रादय' इव अथवा प्रमत्ता विषयाभिष्वगादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्र्यथा प्रतिपद्यन्ते तथ,ऽऽचष्टे--यदिवाऽऽर्ता:-दुःखिनः प्रमत्ताः-सुखिनः तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे ? एतच्चान्यथा मा भंस्था इति दयितुमाह--'अहासच्चमिणं'ति इदं यन्मया कथितं कथ्यमानं च तद् [ यथासत्यं ] याथातथ्यमित्ययः, इत्येतदहं ब्रवीमि--यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणाम या प्रमादो न कार्यः। स्यात्-किमालम्ब्य प्रमादान कार्यस्तदाह-'णाणागमोत्ति न हयनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्ति । ये पुनर्विषयकपायाभिष्वङ्गात्प्रमता धर्म नावबुध्यन्ते ते किम्भूता भवन्तीत्याह--'इच्छापणीता' इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकोण नीता इच्छाप्रणीताः, ये चवम्भूतास्ते वंकानिकेता:-नङ्कस्य-असंयमस्य आ-मर्यादया संयमावधिभूतया निकेतभूता:-आश्रयभूताः, ये चैवम्भूतास्ते कालगृहीताःकालेन-मृत्युना गृहीताः कालगृहोताः, पौन:पुन्येन मरणभाजः, धर्मचरणाय वा गृहीतः कालो यस्ते, तथाहि-- पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनात्तरकालं धर्म करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टाः, निचये कर्मनिचये तदुपादाने वा वा सावद्यारम्भनिचये निविष्टा:-अध्युपपन्नाः, ते किमपां कुन्तिाति दर्शयितुमाह--'पुढो पुढो जाई पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशःप्रकल्पयन्ति-प्रकुर्वन्ति, पाठान्तरं वा 'पत्थ मोहे पुणो पुणो' अत्र१ चिलातपु०-पा० । २ . शमोपपत्ते-मु० । । ॐॐॐॐॐॐॐ ॥२४७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy