________________
आचा०
प्रदी०
चक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टन्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावत: सातर्द्धिरसगारवप्रवणस्याश्रवा भवन्ति पापोपादानकारणानि जायन्ते, यावन्ति कर्मनिर्जरार्थं संयमस्थानानि असंयमस्थानान्यपि तावन्त्येव, तथाहि-- रागद्वेषनासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सवं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकत्वापत्तिवत्, सम्प्रग्दृष्टेस्तु विज्ञातसंसारसमुद्रस्य त्यक्तविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थ: ।
पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह-- 'जे अणासवा' आश्रवेभ्योऽन्येऽनाश्रवाः - व्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, तथाऽपरिश्रवाः - पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलता भ्रामक क्षुल्लकस्येवाऽनाश्रवाः - कर्मबन्धनानि न भवन्ति ।
यद्येवं ततः किमित्याह -- 'एते य पए'ति एतान्यनन्तरोक्तानि पदानि 'ये आश्रवा' इत्यादीनि सम्यग् अविपर्यासेन बुध्यमानः लोकं - जन्तुगणमाश्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना [च] मुच्यमानमाज्ञया - तीर्थकरप्रणीतागमानुसारेणाभिसमेत्य - ज्ञात्वा 'पुढो पवेदितं' पृथक् प्रवेदितं चाभिसमेत्य पृथगाश्रवोपादान निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धमचरणं प्रति नोद्यच्छेत्-नोद्यमं कुर्यात् ? एवं तीर्थकरैः प्रवेदितम् ।। १३१ ।।
अथाऽन्योऽपि ज्ञानी परहिताय प्रवेदयतीत्याह -
११४२
॥२४५॥