SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १।४।२ आचा प्रदी० PRECARRRRRRIESARI ॥ श्रीसम्यक्त्वाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः । अधुना द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः--अनन्तरोद्देशके सम्यग्दर्शनं प्रतिपादितं, तच्च सम्यग्ज्ञानाद्भवति, अतः सम्यग्ज्ञानप्रतिपादनायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्योद्देशकस्येदमादिसूत्रम् जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा । जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा । एते य पए संबुज्झमाणे लोगं च आणाए अभिसमेच्चा पुढो पवेदितं (सू. १३१) 'जे आसवा' इति य इति सामान्य निर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भस्ते आश्रवाः, परि:-समन्तात् श्रवतिall गलति यैरनुष्ठानविशेषैस्ते परिश्रवाः, य एवाश्रवाः-कर्मबन्धस्थानानि त एव परिश्रवाः-कर्मनिर्जरास्थानानि, इदमुक्तं भवति--यानीतरजनाचरितानि स्रगगनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादाश्रवाः, पुनस्तान्येव तत्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकान्यतः परिश्रवाः-निर्जरास्थानानि । सर्ववस्तूनामनैकान्तिकता दर्शयितुमेतदेव विपर्ययेणाह--'जे परिस्सवा' य एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधुतपश्चरणदश विध SIRSASARAGRAM ॥२४४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy