________________
भाचा प्रदी.
१४१
श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञात-विज्ञातम , अतो भवताऽपि सम्यक्त्वादिके मकथिते यत्नवता भाव्यम् ।
ये पुनर्यथोक्तकारिणो न स्युस्ते किम्भूता भवेयुरित्याह-'समेमाणा' तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तो-गाद्धर्थेनात्यर्थमासेवां कुर्वन्तः, 'पलेमाणा' प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु पौन:पुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति प्रकल्पयन्ति संसाराविच्छित्तिं विदधतीत्यर्थः ॥ १२९॥ यद्येवं ततः किं कर्तव्यमित्याह
अहो य रातो य जतमाणे धीरे सया आगतपण्णाणे, पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेज्जासि त्ति बेमि ॥ (सू. १३०)
॥ सम्मत्तस्स पढमो उद्देसओ समत्तो ॥ 'अहो य रातो य' अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि धोर:-परीषहोपसर्गाक्षोभ्यः सदा सर्वकालं आगतं-स्वीकृतं प्रज्ञान-सदसद्विवेको यस्य स तथा, 'पमत्ते'ति प्रमत्तान्-असंयतान् परतीथिकान्वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते'ति अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः मोक्षाध्वनि । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१३०॥
॥ श्रोसम्यक्त्वाध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता ॥
NAGASHASHISHAS
|२४३॥