________________
आचा० प्रदीο
श्रुतधर्म चारित्रधर्मं वावगम्यापरं किं कुर्यादित्याह - 'दिट्ठेहिं णिव्वेयं गच्छेज्जा' दृष्टैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद्विरागं कुर्यात्, शब्दैः श्रुतै रसैरास्वादितैः गन्धैराघ्रातैः स्पर्शैः स्पर्शितैः सद्भिरेवं भावयेत् यथा शुभेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो वा द्वेषो वेति ।
किञ्च - 'णो लोगस्सेसणं चरे' लोकस्य प्राणिगणस्यैषणा - अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु च देयबुद्धिस्तां न चरेत् न विदध्यात् ॥ १२८ ॥
यस्य चैषा लोषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति
जस्स णत्थि इमा णाती अण्णा तस्स कतो सिया ।
दि सुतं मयं विण्णायं जमेयं परिकहिज्जति ।
सममाणा पमाणा पुणो पुणो जाति पकप्पेंती (सू. १२९)
'जस्स णत्थि इमा णाती' यस्य साघोरिमा ज्ञातिः लोकैषणाबुद्धिः नास्ति न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ? इदमुक्तं भवति-- भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्याः । शिष्यमतिस्थैर्यार्थमाह- 'दिठं सुतं' ति यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानालोकेन' दृष्टं तत् शुश्रूषुभिः १ ज्ञानाबलोकेन पा० । २ ततः पा० ।
१।४।१
॥२४२॥