SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाचा प्रदी० श४१ द्रव्यतो हिरण्यादिभवतो माया, सहोपविना वर्तन इति सोपधि कास्तद्विपर्ययेणानुपधिकास्तेष्विति, 'संजोगरएस वा संयोगः-सम्बन्धः, पुत्रकलत्रमित्रादिजनितस्तत्र रतास्तद्विपर्य येणैकत्वभावनाभावितत्वादसंयोगरतास्तेष्विति'। तदेवमुभयरूपेष्वपि यद्भगवता देशनाऽकारि तत्तथ्यं सत्यमेतत् , चशब्दो नियमार्थस्तथ्यमेवैतद्भगवद्वचनं, यथावस्थितवस्तुप्ररूपणात् , तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनश्रद्धानं विधेयम , 'अस्सिं चेयं पवुचति' एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदण्डप्रपञ्चोपरते प्रकणोच्यते. न तु यथाऽन्यत्र 'न हिंस्यात्सर्वभूतानी'त्यभिधायाऽन्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ १२७॥ ___तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयति-- तं आइत्तु ण णिहे, ण णिक्खिवे, जाणित्तु धम्मं जहा तहा । दिठेहिं णिव्वेयं गच्छेज्जा । णो लोगस्सेसणं चरे (मू. १२८) ___ 'तं आइत्तु' तत्तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'ण णिहे'त्ति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीव सामर्थ्यगुणान्न त्यजेदपि, कि कृत्वा ? यथावस्थितं धर्म ज्ञात्वा । १० भाविता असं०-वृ० । २ समस्तदम्भप्रबन्धोपरते-पा० । ३ यथा तथाऽवस्थितं-ब० । मा० २१ ॥२४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy