________________
१।४।१
आचा. प्रदी०
PRESEASESAE
'एस धम्मे'त्ति एषोऽनन्तरोक्तः सर्वे प्राणा न हन्तव्या इत्यादिको धर्मों-दुर्गत्यर्गलासुगतिसोपानदेश्यः, किम्भूतः ? शुद्धः-पापानुबन्धरहितः न शाक्यधिग जातीयानामिव' एकेन्द्रियपञ्चेन्द्रिवधानुमतिकलङ्काङ्कितः, तथा नित्यः अप्रच्युतिरूपः, पञ्चसु विदेहेषु सदाभवनात् , शाश्वतः-शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, 'समेच्च लोय' अमुं च लोकंजन्तुलोकं दुःखसागरावगाद समेत्य-ज्ञात्वा तदुत्तरणाय खेदज्ञैः-जन्तुदुःख परि]च्छेतृभिः प्रवेदितः प्रतिपादितः। ___तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रतर्त्तते इति । तद्यथेत्यादिना दर्शयति-तं जहा उट्ठिएसु वा' धर्मचरणा योद्यता उत्थिता ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, तथोपस्थिता धर्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेषु,
ननु भावोपस्थितेषु चिलातिपुत्रादिष्वि(प्वे)व धर्मकथा युक्तिमती, अनुपस्थितेषु के गुणं पुष्णाति ?
अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वाकर्मपरिण तेः क्षयोपशमापादनादगुणवत्येवेति, 'उवरतदंडेसु' प्राणिन आत्मानं [वा]दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेषु, तत्रोपरतदण्डेषु तत्स्थर्यगुणान्तराधानाथ देशना, इतरेषु उपरतदण्डत्वार्थ, 'सोवधिएसु वा उपधीयते-सङ्गृह यते इत्युपधि१०धिगजातीना०-पा०।
SHASSANASAधार
॥२४०॥