SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० PASSICURARE LE CASTING (१६०) भरतरावतदशप्रक्षेपेग सप्तत्युत्तरशतमिति । जवन्यास्तु विंशतिः, सा चां-पश्चस्वपि महाविदेहेषु विदेहान्तर्महानधुभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पश्चभिगुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एव, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहे कैकसद्भावान्महाविदेहे द्वावेव, पश्चस्वपि दशवेति । के इमे ? अहेन्तः-अर्हन्ति पूजासत्कारादिकमिति, तथैश्वर्याद्युपेता भगवन्तः, ते सर्व एव प्रश्नावसर' एवमाचक्षते एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां पदि अर्धमागधभाषया भापन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवास्रवसंवरबन्धनिरामोक्षपदार्थान् ज्ञापयन्ति-प्रज्ञापयान्त, एवं सम्यग्दर्शनज्ञानचारित्राणि माक्षमागः मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतव' इत्यादिना प्रकारेण प्ररूपयन्ति । किं तदेवमाचक्षते इति दर्शयति 'सव्वे पाणा' यथा सर्वे प्राणा:-सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्च पञ्चेन्द्रियत्रिविधवलोच्छ्वासनिःश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा 'सव्वे भूया' सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुदेशभूतग्रामान्तःपातीनि, 'सव्वे जीवा' सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जोवा:-नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, 'सव्वे सत्ता' सर्व एव स्वकृतसातासातोदयात् सुखदुःखभाजः सत्वाः, एकार्था वते शब्दाः, एते च सर्वेऽपि प्राणिनः पर्यायशब्दा वेदितव्या, न हन्तव्याः दण्डकशादिभिः, 'ण आणावेतव्वा' नाज्ञापयितव्याः प्रसहयाभियोगदानतः, न परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतो, 'न परितावेयवा' न परितापयितव्याः शारीरमानसपीडोत्पादनतः, 'ण उद्दवेयब्या' नापद्रावयितव्याः प्राणव्यपरोपणतः । १ परप्रश्नावसरे-बृ. । २ तत्वार्थाधिगम सूत्र ११ तत्वार्थाधिगम सूत्र ८१ वाकर
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy