________________
आचा०
प्रदी०
'जे कोहदंसी' यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि परिहरति, यदि वा यः क्रोधं पश्यत्याचरति समानमपि पश्यति, मानाध्मातो भवतीत्यर्थः एवमुत्तरत्राप्यायोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न वित्रियते ।
साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह - ' से मेहावी' स मेधावी अभिनिवर्त्तयेद् - व्यावर्त्तयेत् किं तत् ? क्रोधं यावद्दुःखम् । स्वमनीषिकापरिहारार्थमाह- 'एयं पासगस्स दंसणं' ति एतद्-अनन्तरोक्तमुद्देशका दे[रारभ्य ] 'पश्य कस्य - तीर्थकृतो दर्शनम् - अभिप्रायः, किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ ? ' आयाणं'ति आदानं कर्मणामुपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति ।
किञ्चास्य भवतीत्याह -- ' किमत्थि उवधि' पश्यकस्य- केवलिनः उपाधिः- विशेषणं उपाधीयते इति वोपाधिः, द्रव्यतो हिरण्यादि भवतोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ? ' णत्थि 'ति नास्तीत्येतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिने कथयति, यन्मया भगवदन्तिकेऽश्रावि न पुनः स्वमत्या ।। १२६ ।।
॥ इतिश्रीजिन समुद्रसूरिपद्यालङ्कारश्रीजिनहं ससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां तृतीयं शीतोष्णीयाध्ययनं समाप्तम् ॥
卐
१-०देव प० पा० ।
१।३।४
॥२३६॥