________________
आचा०
प्रदी०
'ए विर्गियमाणे 'त्ति, एकम् - अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथग्-अन्यदपि दर्शनादिकं क्षपयति, वायुकोsपि दर्शनमप्तकं यावत् क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनमेकं क्षपयति, पृथग् श्रयान्यथानुपपत्तेः, कः पुनः क्षपकश्रेणियोग्यो भवतीत्याह - 'सड्ढी 'ति श्रद्धा - मोक्षमार्गोद्यमेच्छा वर्त्तते यस्यासौ श्रद्धावान्, आज्ञयातीर्थकर प्रणीतागमानुसारेण यथोक्तानुष्ठान विधायी मेघावी मर्यादाव्यवस्थितोऽप्रमत्तयतिः श्रेण्य नापर इति ।
'लोगं च' चः - समुच्चये, लोकं पड्जीवनिकायात्मकं कषायलोकं वा आज्ञया- मौनीन्द्रागमोपदेशेन अभिसमेत्य - ज्ञात्वा पड्जीव निकायलोकस्य यथा न कुतश्चिन्निमित्ताद् भयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायते ।
तच्च भयं शस्त्राद्भवति, शस्त्रस्य च प्रकर्णगतिरस्त्युत नेति ? अस्तीति दर्शयति- 'अस्थि सत्थं'ति तत्र द्रव्यशस्त्र कृपाणादि तत्परेणापि परमस्ति तीक्ष्गादपि तीक्ष्णतरमस्ति, लोहकर्तृ संस्कारविशेषात्, भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्ये वा विद्यते तयाऽशस्त्रस्य नास्तीति दर्शयति - णत्थि असत्यं'ति नास्ति न विद्यते, किं तद् ? अशस्त्रं - संयमस्तत्परेण परं प्रकर्षगत्यापन्नं, तथाहि - पृथि - व्यादीनां सर्वत्र तुल्यता कार्या न मन्दतीत्रभेदोऽस्ति, पृथिव्यादिषु समभावत्वात्सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्ध्वं गुणस्थानाभावादिति भावः ॥ १२५ ॥
१ सर्व तुल्यता- ० |
१।३१४
॥२३४॥