SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १।३।४ आचा प्रदी. अवाप्तमहायानस्य किमेकेन भवेन मोक्षावाप्तिरुत पारम्पर्येण ? उभयथाऽपि ब्रमः, तद्यथा-अवाप्ततधोग्यक्षेत्रकालस्य लघुकर्मण स्तेनैव भवेन मोक्षावाप्तिरपरस्य त्वन्यथेति दर्शयति'परेण परं' सम्यक्त्वप्रतिषिद्धनरकतिर्यग्गतयो ज्ञानाऽवाप्तियथाशक्तिप्रतिपालितसंयमा' आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रमुकुलोत्पत्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोषपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोद्दिष्टविधिना परं-स्वर्गपारम्पर्येणापवर्गमपि यान्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किं वा शेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलपन्ति, असंयमजीवितं वा नावकाङ्क्षन्ति ॥१२४॥ AAAAAAAAAE SECRECORMA-BAS यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्ष यादेव प्रवर्त्तते' उत नेत्याहएगं विगित्रमाणे पुढो विगिचइ, पुढो विगिचमाणे एगं विगिचइ सड्ढी आणाए मेधावी । लोगं च आणाए अभिसमेच्चा अकुतोभयं । अत्थि सत्थं परेण परं, णत्थि असत्थं परेण परं । (सू. १२५) १शानाऽवाप्त०-पा० । २- ०देवापवत्तते-पा०। ॥२३३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy