SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० 'सव्वतो' सर्वतः - सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः प्रमत्तस्य- मद्यादिप्रमादवतो भयं भीतिः, [तद्यथा-] प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः पदिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, तद्विपरीतस्य नास्ति भयं, 'सव्वतो अपमत्तस्स णत्थि भयं सर्वत ऐहिकामुष्मिकापायाद् अप्रमत्तस्य- आत्महितेषु जाग्रतो नास्ति भयं संसारात्कर्मणो वा अप्रमत्तता च कषायाभावाद् भवति, तदभावाच्च मोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः । तदेवकाभावे बहूनामभावः बहुनामभावे एकाभाव इत्येवं गतप्रत्यागतसूत्रेणैव हेतुहेतुमद्भावं दर्शयितुमाह – 'जे एगं' यो हि प्रवर्धमानशुभाध्यवसाय एकम् - अनन्तानुबन्धिनं क्रोधं नामयति-क्षपयति स बहूनपि मानादीनामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति, यो वा बहून् स्थितिविशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति, अत उच्यते - यो बहुनामः स एव परमार्थत एकनामः । मोहनीयसद्भावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति - ' दुक्खं लोगस्स जाणित्ता' दुःखम् - असातोदयस्तलोकस्य - भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात् कथं दुःखाभावः ? दुःखाभावे च कथं गुणावाप्तिरित्युभयमपि दर्शयितुमाह – 'वंता लोगस्स संजोगं' वान्त्वा त्यक्त्वा लोकस्य - आत्मव्यतिरिक्तस्य धन- पुत्र - शरीरादेः संयोगं - ममत्वपूर्वकं सम्बन्धं, यान्ति - गच्छन्ति, वीराः - कर्मविदारण सहिष्णवः 'महाजाणं' ति यान्त्यनेन मोक्षमिति यानं - सम्यग्दर्शनादित्रितयं, महच्च तद्यानं महायानं तद् यस्य स महायानो - मोक्षस्तं यान्तीति सम्बन्धः । १।३।४ ॥२३२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy