________________
आचा० प्रदी०
११३४
जं अज्जिअं चरितं देसूणाएवि पुचकोडीए ।
तं पि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥२॥' [पुष्पमालाप्रकरण ३१३/३१४ ] स्वमनी पिकापरिहारार्थ गौतमस्वाम्याह—'एतं पासगस्स देसणं' एतद्यत्कषायवमनमनन्तरमुपादेशि तत्पश्यकस्य दर्शनं-सर्व निरावरणत्वात्पश्यति-उपलभत इति पश्यः, स एव पश्यकस्तीर्थकृत् श्रीवर्धमानस्वामी तस्य दर्शनम्-अभिप्रायो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह - 'उवरतसत्थस्स' उपरतं द्रव्य-भावशस्त्रं यस्यासावुपरतशस्त्रः, भावशस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनं विना न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि साधुना तन्मार्गानुयायिना कषायवमनं कार्य, शस्त्रोपरमकार्य दर्शयन् पुनः तीर्थकरविशेषणमाह-'पलियंतकरस्स'पर्यन्तं कर्मणां संसारस्य वा करोतीति पर्यन्त करस्तस्यैतद् दर्शनमिति । यथा च तीर्थंकरः संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीत्युपदर्शयितुमाह--'आयाणं सगड'त्ति आदीयते-गृह्य ते आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म येन तदादानं हिंसाधाश्रवद्वारं तत्स्थितेनिमित्तत्वात् कपाया वाऽऽदानं तद्वमिता स्वकृतभिद् भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः सन् स्वकृतकर्मणां भेत्ता भवतीति भावः ॥१२२॥ १ यदर्जितं चारित्रं देशोनयापि पूर्वकोटया । तदपि कपायमात्रेण हरति नरः मुहूर्तेन ॥२॥ २ ०तस्यैव तद्-पा० ।
ASISTER
-
-
॥२३०॥