________________
आचा
१॥३४
प्रदी.
ABHISHASHASHIOPERABADAS
॥ श्रीशीतोष्णीयाध्ययने चतुर्थीद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके पापकर्माकरणतया दुःखसहनादेव केवलाच्छ्रमणो न भवतीति, अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यूहता च कषायवमनाद्भवतीत्येतत्प्रतिपादनाय सूत्रमाह
से वंता कोहं च माणं च मायं च लोभं च । एतं पासगस्स दंसणं, उवरतसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि (सू. १२२) ‘से वंता' स-ज्ञानादिसहितो दुःखमात्रास्पृष्टो व्याकुलितमतिद्रव्यभूतो लोकालोकप्रपञ्चान्मुक्तः स्वपरापकारिणं क्रोध वमिता यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात्क्रोधं वमिष्यत्येवमुत्तरत्रापि यथासम्भवमायोज्यम्, तत्रात्मीयोपघातकारिणि PI क्रोधकर्मविपाकोदयात्क्रोधः, जाति-कुल-रूप-बलादिसमुत्थो गर्यो मानः, परवश्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, तदेवं क्रोध-मान-माया-लोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्
" सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हंति ।
मन्नामि उच्छुपुप्फ व निष्फलं तस्स सामण्णं ॥१॥ १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् ॥१॥
BASANTEASEASकामना
मा०२०