SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० ११३३ ARRACRECEAERसहक 'जं जाणेजा उच्चालयित' यं-पुरुष जानीयात्-परिच्छिन्द्यात् कर्मणां विषयसङ्गानां चौच्चालयितारं-अपनेतारं तं जानीयाद् दूरालयिकमिति दूरे सर्वहेयधर्मेभ्य इत्याळयो दूरालयः-मोक्षस्तन्मार्गों वा स विद्यते यस्येति दूरालयिकस्तं हेतुहेतुमद्भावं दर्शयति-'जं जाणेजति यं जानीयाद्रालयिकं तं जानीयादुच्चालयितारमिदमुक्तं भवति-यो हि कर्मणां तदाश्रवद्वाराणां चोच्चालयिता अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स सत्कर्मणामुच्चालयिता । स चात्मनो मित्रमतो व्युपदिश्यते'--'पुरिसा!' हे जीव ! आस्मानमेवाभिनिगृहय धर्मध्यानादबहिर्विपयाभिष्वङ्गाय निःसरन्तमवरुध्य तत एवमनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्मणामुच्चालयिताऽऽत्मनो मित्रं भवति । अपि च-'पुरिसा !' हे पुरुष ! सद्भ्यो हितः सत्यः-संयमस्तमेवापरब्यापारनिरपेक्षः समभिजानीहि-आसेवनापरिज्ञया समनुतिष्ठ । किमर्थमिति चेदाह 'सच्चस्से'ति सत्यस्याज्ञयोपस्थितः सन् स मेधावी मार-संसारं तरति । 'सहिते'ति सहितो-ज्ञानादियुक्तः धर्म-श्रुतचारित्राख्यं आदाय-गृहीत्वा किं करोतीत्याह-'सेय'ति श्रेयः पुण्यमात्महितं सम्यगविपरीततया अनुपश्यति ॥ ११९ ॥ उक्तोऽप्रमत्तः तद्गुणाच, तद्विपर्ययमाह दुहतो जीवियस्स पबिंदण-माणण-पूयणाए, जंसि एगे पमादेंति (सू. १२०) १ स कर्मणा०-० । २ अपदिश्यते-वृ० । ESCIUGIESIOGGIGIIGISSISSIT ||२२६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy