________________
অন্য
प्रदी०
१।३।३
GREGORISEERIAREGGAGASTS
मित्रं, विपर्ययाचामित्रः, किमित बहिमित्रमिच्छसि ? यतो हयुपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारमुख'साहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविज़म्भितं, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो' मित्रम् , आत्यन्तिकैकान्तिकसुखोत्पादनात् , विपर्ययाच्च विपर्ययः, न बहिमित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तवशादौपचारिकः ।। ११८॥
यो हि निर्वाणनिवर्तकं वृत्तमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः ? किं फलश्चेत्याह
जं जाणेज्जा उच्चालयितं तं जाणेज्जा दूरालयितं, जं जाणेज्जा दूरालइतं तं जाणेज्जा उच्चालयितं ।
पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि । पुरिसा ! सच्चमेव समभिजाणाहि । सच्चस्स आणाए से उवट्ठिए मेधावी मारं तरति । सहिते धम्ममादाय सेयं समणुपस्सति (मू. ११९) १ संसारिसुख० ० । २ आत्मैवासुमतोऽप्र० मु० । ३ वृत्तिमा० पा० ।
RECERSEASE
॥२२॥