________________
आचा०
प्रदी०
का अरती के आणंदे ? एत्थंपि अग्गहे चरे ।
सव्वं हासं परिचज्ज अल्लीणगुत्तो परिव्वए ।
पुरिसा ! तुममेव तु मित्तं किं बहिया मित्तमिच्छसि ? (सू. ११८ )
'णातीतमहं 'ति तथैवापुनरावृत्त्या गतं गमनं येषां ते तथागताः - सिद्धाः यदिवा यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते तथागताः सर्वज्ञास्ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति - अवधारयन्ति नाऽप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात्परिणतेः, यदिवा नातीतमर्थ विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलपन्ति वा, के ? तथागताः -रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमा गामि वाऽभिलपन्ति, सर्वज्ञास्तु नैवम् ।
तस्मान्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-- ' विधूतकप्पे 'ति विविधम् - अनेकधा धूतम् - अपनीतमष्टप्रकारं कर्म येन स विधूतः कोऽसौ ? कल्पः- आचारी, विधूतः कल्पो यस्य साधोः [स] विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीति यावत्, एतदनुदर्शी च किंगुणो भवतीत्याह -- ' णिज्झोसइत्ता' पूर्वोपचितकर्मणां निज्झषयिता- क्षपकः क्षपयिष्यति वा ।
कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्त संसारदुःख विकल्पाभासस्य यत् १. ०र सुखदुःख० ब० ।
१।३।३
॥२२३॥