________________
आचा०
प्रदी ०
आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च- 'अणण्णपरमं णाणी' श्लोकोऽयं, न विद्यतेऽन्यः परमः प्रधानोऽस्मादित्यनन्य परमः - संयमस्तं ज्ञानी - परमार्थवित्, नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह- 'आयगुत्ते ' इन्द्रिय- नोइन्द्रियात्मना गुप्तः आत्मगुप्तः, सदा-सर्वकालं, यात्रा - संयम यात्रा तस्यां मात्रा तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधार देहप्रतिपालनं भवति तथा कुर्यात् ॥१०॥
सैवात्मगुप्ता कथं स्यादिति चेदाह - विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु गच्छेद् यायात्, महता दिव्यभावेन यद्व्यवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यात् ।
किमालम्व्यैतत्कर्त्तव्यमित्याह - ' आगतिं गतिं' आगमनमागतिः सा च तिर्यङ्मनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देव-नारकयो द्विधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं गतिरपि मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावादतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ रागद्वेषौ ताभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां स न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा राग-द्वेषाभावात् सिद्ध्यत्येव तदवस्थस्य चैतानि छेदनादीनि विशेषणानि 'कंचणं'ति विभक्तिपरिणामात केनचित् सर्वस्मिन्नपि लोके न विद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागति - गतिपरिज्ञानाद्राग-द्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः ॥ ११७ ॥
१।३।३
॥२२१॥