________________
१३।३
आचा प्रदी.
तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सद्भावः' प्रदर्शितः कथं तहि नैश्चयिको मुनिभाव इत्यत आहसमयं तत्थवेहाए अप्पाणं विप्पसादए । अणण्णपरमं णाणी णो पमादे कयाइ वि । आतगुत्ते सदा वीरे जायामायाइ जावए ॥१०॥ विरागं रूवेहिं गच्छेज्जा महता खुडुएहिं वा ।
आगति गति परिण्णाय दोहिं वि अंतेहिं अदिस्समाणेहिं से ण छिज्जति, ण भिज्जति, ण डज्झति, ण हम्मति कंचणं सव्वलोए (सू. ११७)
'समयं तत्थुवेहाए' समस्य भावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेपणीयपरिहरणं लज्जादीना जनविदितं चोपवासादि तत्सर्वमुनिभावकारणं, यदिवा समयमागमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनाऽनुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थस्तेनागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादयेत्-विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्ट्या वाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्यात् ।
१. त्वे सदसद्भावः वृ० ।
॥२२०॥