________________
आचा०
प्रदी.
तदेवमात्मसमतां सर्वप्राणिनामधार्य किं कर्तव्यमित्याह-'तम्हा ण हता' यस्मात् सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवः तस्मानहन्ता न व्यापादकः स्यात् , नाप्यपरस्तान जन्तून विविधैः-नानाप्रकारैरुपायैर्घातयेत-विघातयेदिति ।
न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिणं'ति यदिदं-यदेतत् 'पापकर्माकरणताकारणं, कि तद् ? दर्शयति-अन्योन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य पापं-पापोपादानं कर्मानुष्ठानं न विद्यत्ते 'किं तत्थ मुणी कारणं सिया' ? किं-प्रश्ने, तत्र-तस्मिन् पापकर्माकरणे किं मुनिरितिकृत्वा पापं कर्म न करोति ? काक्वा पृच्छति, यदि नामासौ यथोक्त [निमित्तात्] पापानुष्ठानविधायी न सञ्जज्ञे किमेतावतैव मुनि[रसौ ? नैव मुनि] रित्यर्थः, अद्रोहाध्यवसायो हि मुनि[भाव] कारणं, स च तत्र न विद्यते, अपरोपाध्यावेशात, विनेयो वा पृच्छतियदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्न ? आचार्य आह--सौम्य ! निरस्तापरव्यापारः शृणु-अपरोपाधिनिरस्त हेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथा, अयं तावनिश्चयनयाभिप्रायो, व्यवहारनयाभिप्रायेण तूच्यते-यो हि सम्यग्द्रष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गारवेण' वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः ॥११६।।
१. गौरवेण बृ० ।
॥२१९॥