________________
१।३।३
भाचा प्रदी०
NEGISTERESI-%AGICAIना
॥ श्रीशीतोष्णीयाध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीय आरभ्यते, अस्य चेदमादिसूत्रम्संधि लोगस्स जाणित्ता, आततो बहिया पास । तम्हा ण हंता ण विघातए।
जमिणं अण्णमण्णवितिगिछाए पडिलेहाए ण करेति पावं कम्म कि तत्थ मुणी कारणं सिया ? । (सू. ११६)
'संधिंति सन्धिद्रव्यतो भावतश्च, द्रव्यतः कुडयादिविवरं भावतः कर्मविवरं, तत्र दर्शनमोहनीयं यदुदीर्ण तत् क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि पुत्र-कलत्र-संसारमुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धिरवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्रात्मौपम्यं समाचरेदित्याह च-'आततो बहिया पास' यथाऽऽत्मानं मुखमिष्टमितरत्त्चन्यथा तथा बहिरप्यात्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वममुखाप्रियत्वं च पश्य-अवधारय ।
॥२१८॥