________________
आचा० प्रदी०
क्रोध आदिउँषा ते क्रोधादयः, मीयते-परिच्छिद्यतेऽनेनेति मानं-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं
११३१२ क्रोधादिमानं, क्रोधादि यो मानो-गर्वः क्रोधकारणस्तं हन्यात , कोऽसौ ? वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाहलोभस्यानन्तानुवन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिमहती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान् , यत आगम:-'मच्छा मणुआ य सत्तमि पुढवि' [जिनभद्रीया बृ० सं० २८५] ते च महालोभा-ला भिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः। यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति तस्माद्वीरो लोभतोर्वधाद्विरतः स्यादिति, किश्च-'छिदिज सोतं' शोकं भावश्रोतो [वा] छिन्धात्-अपनयेत्, किम्भूतो ? लघुभूतो-मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी ॥८॥
पुनरप्युपदेशदानायाह-'गंथं ति ग्रन्थं-बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञायेहाचैव कालानतिपातेन वीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत् , किश्च-'सोय'ति विषयाभिष्वङ्गः संसारश्रोतस्तद् ज्ञात्वा दान्त इन्द्रिय-नोइन्द्रियदमेन संयम चरेत् , किमभिसन्धाय 'उम्मुग्ग'त्ति इह मिथ्यात्वादिशैवलाच्छादिते संसारहदे जीवकच्छपः श्रुति-श्रद्धा-संयमवीर्यरूपमुन्म जनमासाद्य-लब्ध्वाऽन्यत्र सम्पूर्णमोक्षमार्गाभावात् मानुषेष्वित्युक्तं, 'णो पाणिणं'ति प्राणा विद्यन्ते येषां ते प्राणान्-पञ्चेन्द्रिय-त्रिविधवलोच्छ्वासनिःश्वासायुष्कलक्षणान् नो समारभेथा:-न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा, इतिःपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥९॥ ॥श्रीशीतोष्णीयाध्ययनस्य द्वितीयोइंशकप्रदीपिका समाप्ता ॥
| ॥२१७॥
PRAKASHASTRA
मा० १९