________________
१।३
आचा प्रदी०
||
CTESRAEESASARIES
जणवयपरिग्गहाए (सू० ११४) । 'अणेगचित्ते'त्ति अनेकानि चित्तानि कृषिवाणिज्यादीनि यस्यासावनेकचित्तः, खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, अयं पुरुष इति प्रत्यक्षगोचरीभूत संसार्यपदिश्यते, यश्चानेकचित्तो भवति स किं कुर्यादित्याह-'से केयणं'ति द्रव्यकेतनं चालिनी' परिपूर्णकः समुद्रो वेति, भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्व पूरयितुमर्हति, अर्थितया शक्याशक्यविचारक्षमोऽशक्यानुष्ठानेऽपि प्रवर्तते ।
सच लोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह-'से अण्णवहाए' स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां 'परियावणाए' परितापनाय भवति, तथाऽन्येषां द्विपद-चतुष्पदादीनां परिग्रहाय भवति, 'जणवयवहाए' जनपदे भवा जानपदाः कालप्रष्ठादयो राजादयो तद्वधाय तथा जनपदानां लोकानां परिवादाय चौरोऽयं पिशुनो वेत्येवं मर्मोद्घट्टनाय, जनपदानां मगधादीनां परिग्रहाय भवति ॥११४॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उतान्यथापीति दर्शयतिआसेवित्ता एयमद्वं इच्चेवेगे समुद्विता । तम्हा तं बिइयं नासेवते णिस्सारं पासिय णाणी । १. चालनी-बृ०।
ASISASTERBASHI
॥२२