SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आचा० ११३२ प्रदी ALGISIGILESESSISSEARKASS तदेवं सर्वमग्रश्च मूलश्च 'विगिच' त्यज-पृथक्कुरु, तदनेनेदमुक्तं भवति-न कर्मणः पौद्गलिकस्यात्यन्तिकक्षयोऽपि त्वात्मनः पृथक्करणं, किश्च 'पलिछिदियाणं तपः-संयमाभ्यां रागादीनिबन्धनानि तत्कार्याणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यतीति, निष्कर्मत्वादपगतावरणः सर्वज्ञानी सर्वदर्शी च भवति ॥७॥ यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याहएस मरणा पमुच्चति, से हु दिट्ठभये मुणी । लोगंसि परमदंसी विवित्तजीवी उवसंते समिते सहिते सदा जते कालकंखी परिव्वए । बहं च खलु पावं कम्मं पगडं (सू० ११२) एष-इत्यनन्तरोक्तो मूलाग्रविवेकज्ञो निष्कर्मदशी मरणाद्-आयुःक्षयलक्षणान् मुच्यते, आयुषो बन्धनाभावात्, 'से हु'त्ति सोऽनन्तरोक्तो मुनिदृष्टं संसाराद्भयं सप्तप्रकारं वा भयं येन स तथा, हुरवधारणे द्रष्टभय एव । ___'लोगंसि' इति लोके-द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमस्तं द्रष्टुं शीलमस्येति परमदर्शी, 'विवित्तजीवी' विविक्तं स्त्री-पशुपण्ड कसमन्वितशय्यादिरहितं द्रव्यतो, भावतस्तु रागद्वेषरहितमसक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रिय-नोइन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्या इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यत:-अप्रमादी ।। GISESEISISSASIGIOSASIES ॥२१२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy