________________
१।३।२
आचा० प्रदी.
RESEARCRA-%AACARE
अलं बालप्स संगेणं, वेरं वड्ढेति अप्पणो ॥६॥ भ्लोकः । हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य स कामगृघ्नहत्वाऽपि प्राणिनो नन्दीति क्रीडेति मन्यते, वदति च महामोहावृतोऽशुभाध्यवसायो' यथैते पशवो मृगया सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादिष्वप्यायोज्यम् । यदि नामैवं ततः किमित्याह-अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातरूपः सङ्गो विषयादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ? उच्यते, 'वेरं' पुरुषवधसमुत्थं वैरं तद्बालः सङ्गानुसङ्गी | सन्नात्मनो वर्धयति ॥६॥ यतश्चैवं ततः किमित्याहतम्हातिविज्जं परमंति णचा, आयंकदंसी ण करेति पावं ।
अग्गं च मूलं च विगिच धीरे, पलिछिदियाणं णिक्कम्मदंसी ॥७॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा, सम्यग्ज्ञान-सम्यग्दर्शनं वा, | एतत्परमिति ज्ञात्वा किं करोतीत्याह-आतङ्को-नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स पापानुबन्धि कर्म न करोति, | उपलक्षणार्थत्वान्न कारयति, नानुमन्यते । पुनरप्युपदेशदानायाह-अग्रं-भवोपग्राहिकर्मचतुष्टयं, मूलं-घातिकर्मचतुष्टयं,
१०वृत्ताऽशु०-पा०।
HASTRIANESHASKAR
॥२१॥