SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० यद्येवं ततः किमित्याह -- ' तम्हाऽतिविज्जो' तस्माज्जाति-वृद्धि-सुख - दुःखदर्शनादतीव विद्या- तस्वपरिच्छेत्री यस्यासावतिविधः स परमं - मोक्षं ज्ञानादिकं तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावधानुष्ठानं न विदधाति ॥४॥ पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह उम्मुच पास इह मच्चिएर्हि, आरंभजीवी उभयाणुपस्सी, कामेसु गिद्धा णिचयं करेंति, संसिच्चमाणा पुणेरेति गन्भं ॥ ५ ॥ इह - मनुष्यलोके मर्त्यैः-लोकैः सार्द्धं द्रव्यभावभेदभिन्नं पाशमुत्- प्राबल्येन मुञ्च-अपशकुरु, स हि काम-भोगलालसस्तदादानहेतोर्डिंसादीनि पापान्यारभते, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी - महारम्भ-परिग्रहपरिकल्पितज । वनोपायः' स उभयं - शारीर - मानसमैहिकामुष्मिकं वा दृष्टं शीलमस्येति स तथा, 'कामेसु'त्ति कामा- इच्छामदनरूपास्तेषु गृद्धाःअध्युपपन्ना निचयं - कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह - 'संसिन्च्चमाणा' तेन कामोपादानजनितेन कर्मणा संसिच्यमाना- आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते - आसते ||५|| तदेवमनिभृतात्मा किम्भूतो भवतीत्याह अवि से हासमासज्ज, हंता गंदीति मण्णति । १०पायम् वृ० । २ भयम् । १।३।२ ॥२१० ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy