________________
आचा०
प्रदी०
यद्येवं ततः किमित्याह -- ' तम्हाऽतिविज्जो' तस्माज्जाति-वृद्धि-सुख - दुःखदर्शनादतीव विद्या- तस्वपरिच्छेत्री यस्यासावतिविधः स परमं - मोक्षं ज्ञानादिकं तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावधानुष्ठानं न विदधाति ॥४॥ पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह
उम्मुच पास इह मच्चिएर्हि, आरंभजीवी उभयाणुपस्सी,
कामेसु गिद्धा णिचयं करेंति, संसिच्चमाणा पुणेरेति गन्भं ॥ ५ ॥
इह - मनुष्यलोके मर्त्यैः-लोकैः सार्द्धं द्रव्यभावभेदभिन्नं पाशमुत्- प्राबल्येन मुञ्च-अपशकुरु, स हि काम-भोगलालसस्तदादानहेतोर्डिंसादीनि पापान्यारभते, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी - महारम्भ-परिग्रहपरिकल्पितज । वनोपायः' स उभयं - शारीर - मानसमैहिकामुष्मिकं वा दृष्टं शीलमस्येति स तथा, 'कामेसु'त्ति कामा- इच्छामदनरूपास्तेषु गृद्धाःअध्युपपन्ना निचयं - कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह - 'संसिन्च्चमाणा' तेन कामोपादानजनितेन कर्मणा संसिच्यमाना- आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते - आसते ||५||
तदेवमनिभृतात्मा किम्भूतो भवतीत्याह
अवि से हासमासज्ज, हंता गंदीति मण्णति ।
१०पायम् वृ० । २ भयम् ।
१।३।२
॥२१० ॥