SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १३१ कार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानस्य संयमस्य खेदज्ञो-निपुणः, | यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशत्रस्य खेदज्ञः।। इदमुक्तं भवति-यः शब्दादिपर्यायान् इष्टानिष्टात्मकत्वात् तत्प्राप्तिपरिहारानुष्ठानं च शस्त्रभूतं वेत्ति सोऽनुपघातकत्वासंयममप्यशस्त्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत्फलत्वात् ज्ञानस्येति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरोधादनादिभवोपात्तकर्मक्षयः । कर्मक्षयाच यद्भवति तदुपदिशति-'अकम्मस्से ति न विद्यतेऽष्टप्रकारं कर्मास्येत्यकर्मा तस्य व्यवहारो न विद्यते-नाऽसौ नारकतियग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग् भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-'कम्मुणा उवाधी'ति उपाधीयते-व्यपदिश्यते येनेत्युपाधिर्विशेषणं, स उपाधिः कर्मणा ज्ञानावरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि १, चक्षुर्दर्शनी अचक्षुदर्शनी निद्रालुरित्यादि २, सुखी दुःखी चेति, ३, मिथ्याद्रष्टिः सम्यग्रदृष्टिः सम्यगमिथ्यादृष्टिः स्त्री पुमानपुंसकः कषायीत्यादि ४, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुर्दीर्घायुरित्यादि ५, नारकस्तियग्योनयः' एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि ६, उच्चैर्गोत्रो नीचैर्गोत्रो वेति ७, कृपणस्त्यागी निरुपभोगो निर्वीय ८, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्तव्यमित्याह --- 'कम्मं च पडिले हाए' कर्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृतिस्थित्यनु १ ०योनिकः-वृ० GESSESAROSESSIOSHOROSCOOLOCALOG ॥२०६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy