________________
आचा०
प्रदी०
भावप्रदेशात्मक' पर्यालोच्य तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतिव्यम् ॥ ११०॥
किश्च -
कम्ममूलं च जं छणं,
पडिलेहिय सव्वं समायाय दोहि अंतेहिं अदिस्समाणे तं परिण्णाय मेधावी विदित्ता लोगं वं लागणं सहावी परिक्कमेज्जासि (सू. १९१ ) तिबेमि
॥ सीओसणिज्जस्स पढमो उद्देसओ समत्तो ॥
'कम्ममूलं' कर्मणो मूलं कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य, यत्क्षणमिति 'क्षणु हिंसाया' क्षणनं यत्किमपि प्राण्युपघातकारि तत्कर्म मूलतया प्रत्युपेक्ष्य परित्यजेत् पुनरप्युपदेशदानायाह - 'पडिले हिय सव्वं प्रत्युपेक्ष्य पूर्वोक्तं कर्म तद्विपक्षमुपदेशञ्च सर्व समादाय गृहीत्वा अन्तहेतुत्वादन्तौ राग-द्वेषौ ताभ्यां द्वाभ्यां सहायमानस्तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, 'तं परिण्णाय' तं रागादि१ ०नुभागप्र० मु० । २०भ्य कर्मणोपाये - पा० ।
१।३।१
॥२०७॥