SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० मा० १८ मतिमान् ! सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत् सुप्तगुणदोषापादनं मा स्वापे मर्ति' कुरु, किश्च - 'आरंभ' ति आरम्भः - सावधक्रियानुष्ठानं तस्माज्जातमारंभजं, किं तद् ? दुःखं तत्कारणं वा कर्म । इदमिति प्रत्यक्षगोचरापनमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् ज्ञात्वा परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषय - पायाच्छादित चेताभावशायी स किमाप्नुयादित्याह - 'मायी' मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकपायवान् मद्यादिप्रमादवान्भारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः, स किम्भूतो भवतीत्याह'उवेहमाणो 'त्ति शब्द-रूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः - अकुर्वन् ऋजुर्भवति, यतिरेव परमार्थतः ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्यथाग्रहणाद्वक्रः, किञ्च - 'माराभिसंकी' स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की- मरणादुद्विजंस्तत्करोति येन मरणात्प्रमुच्यते । किं तत्करोति ? 'अप्पमत्तो कामेहिं' कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद् ? यः कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति- 'उवरतो पावकम्मेहिं' उपरतो मनोवाक्कायैः कुतः ? पापोपादानकर्मभ्यः कोऽसौ ? वीरः, किम्भूतो ? गुप्तात्मा, कश्च गुप्तो भवति ? यः खेदज्ञो । यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह - 'जे पज्जवजात 'ति शब्दादीनां विषयाणां पर्यवा: - विशेषास्तेषु तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्रं - शब्दादिविशेषोपादानाय यत्प्राण्युपघात - १ स्वापमर्ति ब० । શાર ॥२०५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy