________________
१३१
आचा प्रदी०
सितोसिणचागी से णिग्गंथे अरति-रतिसहे, पल्सयं णो वेदेति, जागर-वेरोवरते वीरे ! एवं दुक्खा पमोक्खसि ।
____ जरा-मच्चुवसोवणीते णरे सततं मूढे धम्मं णाभिजाणति (सू. १०९) । 'सीतोसिणच्चागी' सबाह्याभ्यन्तरग्रन्थिरहितः सन् शीतोष्णत्यागी सुख-दुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमारत्यसंयमरतिसहः' सन् परुषतां-कर्कशतां पीडाकारितां परीपहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो नो वेत्ति-न तान् पीडाकारित्वेन गृहातीत्यर्थः । किञ्च-'जागर' असंयमनिद्रापगमाज्जागर्तीति जागरः, 'वेरोपरते' अभिमानसमुत्थोऽमावेशः परापकाराध्यवसायो वैरं, तस्मादुपरतो वैरोपरतो, जागरश्वासौ वैरोपरतश्चेति कर्मधारयः, क एवम्भूतो ? वीरः-कर्मापनयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखात् दुःखकारणात् प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह-'जरामच्चुत्ति जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो-महामोहमोहितमतिर्ध वर्गापवर्गमार्ग नाभिजानी ते-नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरा-मरणे न स्तः,
देवानां जराऽभाव इति चेत् ? १ संयमासंयमरत्यरतिसहः - बु० । २ धीरः -पा० । ३ धीर ! - पा० ।
KEEPEACEAEECIAAAA
॥२०२॥