________________
१।३।१
आचा० प्रदी.
RMATERIASIREHI--KI-
"रक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपण पतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥१॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः।
एकः पश्चसु रक्त प्रयाति भस्मान्ततामबुधः ॥२॥ [ __ अथवा शब्दे पुष्पशालाद्भद्रा ननाश १, रूपे अर्जुनकतस्करः २, गन्धे गन्धप्रियकुमारः ३, रसे सौदासः ४, स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः ५, परत्र च नरकादियातनास्थानभयमिति ॥१०७॥ एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह
से आतवं णागवं वेयवं धम्मवं बंभवं से पन्नाणेहिं परिजाणति लोगं, मुणी ति वच्चे, धम्मविदु ति अंजू आवट्टसोए संगमभिजाणति (सू. १०८) 'से आत'ति यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतून् जानाति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया प्रत्यायष्टे स-साधुरात्मवान् शब्दादिपरित्यागेन आत्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मा ।
१०ततां मूढः - पा० ।
॥२०॥