SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. जस्सिमे सद्दाय ख्वा य रसा य गंधा य फासा य अभिसमण्णागता भवंति (सू. १०७) ||| १॥३॥१ 'लोगंसि जाण अहियाय दुवखं' लोके-पट्नीवनिकाये जानीहि-परिच्छिन्द्या दुःखहेतुत्वादुःखम्-अज्ञानं मोहनीयं वा, तदहिताय नरकादिभवव्यपनोपनिपाताय, इह वा बन्ध-वध-शारीर-मानसपीडायै जापत इस्पेतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञानरूपाददुःखहेतोरपसर्पणम् । 'समयं लोगस्स जाणित्ता' समयः-आचारोऽनुष्ठानं तं लोकस्य प्राणिगणस्य ज्ञात्वाऽत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धः, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकपायहेतुकं कर्मोपादाय नरकादियातनास्थानेवृत्पद्यते ततः कथञ्चिदुदवृत्त्यावाप्य चाऽशेपक्लेशवातनं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमति स्तत्तदारभते येना'ऽधोऽधो व्रजति, संसारान्नोन्मज्जतीति । अयं लोकाचारस्तं ज्ञात्वा, किं कुर्यात् इत्याह - एत्थ सत्थोवरते' अत्रास्मिन् पटकायलोके शस्त्राद द्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदि वा यत्संयमशस्त्रं प्राणातिपातादि शब्दाददिकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति । आह च-'जस्सिमे सदा य रूवा य' ति यस्य मुने रिमे प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्द-रूप-- रस-गन्ध-स्पर्शा मनोज्ञेतरभेदभिन्ना अभिसमन्वागता-ज्ञाता यस्य मुनेर्भवन्ति स लोकं जानाति, इष्टेषु न रागमुपयाति नापीतरेषु द्वेषमिति भावः, यदिवा इहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोके, उक्तश्च१. ०ते येन येना०-७० । २. पर्व-पा० । ३. द्वेष इति मु. । ।।१९९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy