________________
45
आचा० प्रदी०
१।३।१
5 अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तनमनुवर्तन्ते, उक्तश्च
"नातः परमहं मन्ये, जगतो दुःख कारणम् ।
यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥१॥" [ 'सुत्ता अमुणी' इह सुप्ता द्वेघा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादापन्ना द्रव्यमुप्ताः, भावसुप्ताः मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये अमुनयः-मिथ्यादृशः सततं भावमुप्ताः सद्विज्ञानानुष्ठानरहितत्वात, निद्रया तु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलनस्ते सततं-अनवरतं जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि क्वचिद्वितीयपौरुष्यादौ सततं जागरुका एव ।
तदेवं दर्शनावरणीयकर्मविपाकोदयेन काचित्स्वपन्नपि यःसंविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति ॥१०६॥ ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं च जन्तूनामहितायेति दर्शयति--
लोगंसि जाण अहियाय दुक्खं । समयं लोगस्स जाणित्ता एत्थ सत्थोवरते ।
-54
DI॥१९८॥