________________
आचा प्रदी.
।३।१
शीतमिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरी परिसोढव्याः परीषहाः', प्रमादः-कार्यशैथिल्यं शीतलविहारता, उपशमो-मोहनीयोपशमः, स च सम्यक्त्व-देशविरति-सर्वविरतिलक्षणः, उपशमश्रेण्याश्रिनो वा तत्क्षयो वा, विरतिः-प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः, सुखं च सातावेदनीयविपाकाविर्भूतम् । एतत् सर्व परिषद-प्रमादादि शीतं स्त्रीपरीपह-सत्कार परीषहौ शीतो, भावमनोऽनुकूलत्वात्, शेषास्तु विंशतिः परीपहा उष्णा, मनसः प्रतिकूलत्वात् ।
उष्णश्च परीषहाः-पूर्वव्यावर्णितस्वरूपाः, तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठान, कषायाः-क्रोधादयः, शोक - इष्टाप्राप्तिविनाशोद्भव आधिः, वेदः-स्त्री-पु-नपुंसकवेदोदयः, अरतिः-मोहनीय विपाकाच्चित्तौःस्थ्य, दुःख चासातवेदनीयोदयात्, इत्येतानि परीपहादीनि पीडाकारित्वादुष्णमिति ॥१॥
इत्यादि शीतोष्णभावानिह प्रतिपादितत्वात् शीतोष्णीयाध्ययनं, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम्
सुत्ता अमुणी मुणिणो सया जागरंति (सू. १०६) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-इह दुःखी दुःखानामेवावर्त्तमनुवर्तत इत्युक्तं, इहापि भावमुप्ता १. तत्वार्थसूत्र ९/८ । २. विहारिता-पा० ।
॥१९७॥