________________
आचा प्रदी०
१।२।६
सध
सावरकर
छणं छणं परिण्णाय लोगसण्णं च सव्वसो (सू. १०४) __'से जं च आरभे'त्ति स कुशलो यदारभत आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमनारम्भणीयं चेति संसारकारणस्य मिथ्यात्वाविरत्यादेः प्राणातिपाताधष्टादशरूपस्य चैकान्तेन निराकार्यत्वात् , तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात् तनिषेधमाह--'अणारद्धं च ण आरभे' अनारब्धं-अनाचीणं केवलिभिर्विशिष्टमुनिभिर्वा तत्साधु रभेत-नो कुर्यात्, यदाचीण मोक्षाङ्गं तत् कुर्यात् ।
यद्भगवताऽनाचीर्ण परिहार्य तन्नामग्राहमाह--'छणं छणं परिणाय' 'क्षणुहिंसायां' क्षणनं क्षणो-हिंसनं येन येन प्रकारेण हिंसोत्पद्यते तत् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत, किञ्च-'लोगसणं च सव्यसो' लोकस्य-गृहस्थलोकस्य संज्ञान-संज्ञा विषयाभिष्कङ्ग जनितेसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत, कथं ? सर्वशः-सर्वैः प्रकारैर्योगत्रिक-करणत्रिकेणेत्यर्थः ॥१०४॥
तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्ग निराचिकीहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति--
१. जनिता-पा० ।
RASHISHASHISH
॥१९४॥