________________
आचा०
१।२।६
प्रदी.
DEGREGRESSIGGSGESPRESSRECE
ज्ञाचारी-विशिष्टज्ञानान्वितः सर्वसंबरचारित्रोपेतो वा, स एवम्भूतः कं गुणमवाप्नोतीत्याह-'ण लिप्पति' न लिप्यतेनावगुण्ठथते, केन ? 'छणणापदेण' क्षणपदेन-हिंसास्पदेन प्राण्युपमर्दजनितेन कोऽसौ ? वीरः।
किमेतावदेव वीरलक्षणमुतान्यदप्यस्तीत्याह---'से मेधावी जे अणुग्घायणस्स खेयन्ने' स मेघावी-बुद्धिमान् य अणोदघातनस्य खेदज्ञः-अणत्यनेन चातुर्गतिकसंसारमित्यणं-कर्म तस्योत्-प्रावल्येन घातनमपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, 'जे य बन्धपमोक्खमण्णेसी' यश्च प्रकृतिस्थित्यनुभाग'प्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः मोक्षस्तदुपायो वा तमन्वेष्टुंविलोकयितुं शीलमस्येति बन्धप्रमोक्षमन्वेषो स वीरः, स किं छद्मस्थ आहोस्वित् केवली? केवलिनो यथोक्तविशेषणासम्भवात् छमस्थस्य ग्रहणम् ।
केवलिनस्तर्हि का वार्तेति ? उच्यते--'कुसले पुण णो बद्धे णो मुक्के' कुशलोऽत्र क्षीणघातिकमांशो विवक्षितः स च तीर्थकृत् सामान्यकेवली वा, छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवळी तु घातिकर्मक्षयान्नो बद्धो, भवोपग्राहिकर्मसद्भावानो मुक्तः, यदि वा छद्मस्थ एवाभिधीयते कुशलोऽवाप्तज्ञान-दर्शन-चारित्रो मिथ्यात्व-द्वादशकषायोपशमसद्भावात्तदुदयवानिव न बद्धोऽद्यापि तत् सत्कर्मतासद्भावानो मुक्त इति ॥१३॥ एवम्भूतश्च कुशलः केवली छमस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति--
से जं च आरभे, जं च णारभे, अणारद्धं च ण आरभे । १. •नुभाव०-६०।
SOSIAALISESSHOSILA
मा० १७