________________
१११६
चा० दी०
RA
यथायोग्यमुत्तरकालं कथनीयम् , एतदुक्तं भवति-धर्मकथाविधिज्ञो हि आत्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः, क्षेत्रतः किमिदं क्षेत्र बौदैर्भागवतैरन्यैर्वा तज्जातीयः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुःषमादिकं दुर्लभद्रव्यकालं वा', भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्य, अपरस्य वधिकार एव नास्ति, उक्तञ्च
"जो हेउवायपक्खमि हेउओ आगमम्मि आगमिओ। सो समयपण्णवओ सिद्धंतविराहओ अण्णो ॥१॥
[सन्मतितर्क-३/४५] य एवं धर्मकथाविधिज्ञः स एव प्रशस्त, आह च-'एस वीरे पसंसिए' यो हि पुण्यापुण्यवतोधर्मकथासमदृष्टिविधिज्ञः श्रोतृविवेचकः एषोऽनन्तरोक्तो वीर:-कर्मविदारकः प्रशंसित:-श्लाषितः। किम्भूतो यो भवतीत्याह-'जे बद्धे पडिमोयए' यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मोपदेशदानादिना स च तीर्थकरगणधराचार्याः | दिर्वा यथोक्तधर्मकथाविधिज्ञः।
क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह-'उ8 अहं तिरियं ऊद्धर्व-ज्योतिष्कादीन् , अधो-भवनपत्यादीन, तिर्यग्दिक्षु-मनुष्यादीन् मोचयति । __ 'से सव्वतो' स इति वीरो बद्धप्रत्तिमोचकः सर्वतः-सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरि
१. यो हेतुवादपक्षे हेतुक आगमे आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ॥१॥
॥१९२॥