________________
प्राचा पदी.
१२।६
मानवानां-जन्तूनां, ततः किं ? तस्य दुःखस्य-असातलक्षणस्य कर्मणो वा कुशला-निपुणाः धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देश-कालादिक्रमज्ञास्त एवम्भूताः परिज्ञाम् -उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च । किञ्च'इति कम्मं परिण्णाय'त्ति इतिः-पूर्वप्रक्रान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां, यस्य च दुःखस्य परिज्ञां कुशला उदाह| रन्ति तद् दुःखं कर्मकृतं तत्कर्माऽष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च, ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वशः सर्वैः प्रकारोगत्रिक-करणत्रिकरूपैर्न वर्तेत'।
'जे अणण्णदंसी' अन्यद द्रष्टुं शीलमस्ये त्यन्यदर्शी, न अन्यदर्शी अनन्यदर्शी-यथाऽवस्थितपदार्थद्रष्टा, कश्चैवम्भूतो ? यः सम्यगूदृष्टिमौनीन्द्रप्रवचनाविर्भूततत्वार्थों यश्चाऽनन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते, हेतु-हेतुमद्भावे सूत्रं लगयितुमाह-'जे अणण्णारामे' यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी । तदेवं सम्यक्त्वस्वरूपमाख्यातम् ।
कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- 'जहा पुण्णस्स कत्थति' तीर्थकर-गणधराचार्यादिना यथा येन प्रकारेण पुण्यवतः सुरेश्वर-चक्रवर्ति-माण्डलिकादेः कथ्यते-उपदेशो दीयते तथा-तेनैव प्रकारेण तुच्छस्य-द्रमकस्यापि काष्ठहारादेः | कथ्यते अथवा पूर्णो-जाति-कुल-रूपाधुपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ:, उक्तश्च--
१. वर्तते-बृ०।
HARASHARERASACREAAL
॥१८९॥