________________
आचा० प्रदी.
| १।२।६
RIER-I-NIRAHASRASHAIL
एम सुवसु वीरे पसंसिए अच्चेति लोगसंजोगं । एस णाए पवुनति (सू. १०१) 'दुव्वसु'त्ति वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्व्यं तद्वसु, दुष्टं वसु दुर्वसु, दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः-मुक्तिगमनायोग्यः, स च कुतो भवति ? अनाज्ञया तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ? तदुच्यते --उद्देशकादेरारभ्य यथासंभवमायोज्यं, तथाहि-मिथ्यात्वमोहिते लोके संबोधैं दुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं शब्दादिविषयेविष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरुक्षाणि भोक्तुम् , एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, अनुकूल-प्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुं, असहने च कर्मोदयोऽनाद्यतीत कालसुखभावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियोऽतो निरोधकल्पायामाज्ञायां दुःखं वसति, असंश्च किम्भूतो भवतीत्याह-'तुच्छए गिलाति' तुच्छो-रिक्तः, स च द्रव्यतो निर्धनो घटादिर्वा जलादिरहितो, भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि काचित संशीतिविषये केनचित् पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिकाः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसंनिधिः संनिधेर्निर्दोषतामाचष्टे एवमन्यत्रापीति ।
यस्सु कषायमहा विषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च-'एस सुबसु वीरे पसंसिए' एष इति मुबसुमुनिानाधरिक्तो यथावस्थितमार्गप्ररूपको वीरः
%C414141
।।१८७॥