________________
45
१।२।६
आचा० प्रदी०
एवं रूप-बलादिष्वपि वाच्यं, सनत्कुमारद्रष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याख्याति ।
स्यादेतत्-किमालम्ब्य करोतीत्याह---'मुणी मोणं समादाय'त्ति मुनिस्त्रिकालवेदी यतिः मुनेरयं मौन:-संयमो, सर्वथा संयममादाय किं कुर्यात् ? धुनीयात् कर्मशरीरकम् ।
कथं तच्छरीरकं धृयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह--'पंत लूहं सेवंति' प्रान्त-स्वाभाविकरसरहितमल्पं वा, रूक्षम् - आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि, प्रान्तं-द्वेषरहितं विगतधूम, रूक्षं-रागरहितमपगताङ्गार सेवन्ते-भुजते, के ? वीरा:-साधवः, किम्भूताः ? समत्वदर्शिनो-राग-द्वेषरहिताः।
प्रान्त-रूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह--'एस ओघंतरे मुणी' एष इति प्रान्तरुक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौधं तरति । कोऽसौ ? मुनिः, कश्च भवौधं तरति ? यो मुक्तः स बाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ? यो भावतः शब्दादिविपयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौधं तरति, तीर्ण एवेति वा, इति:-अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१०॥ यश्च मुक्तत्व-विरताभ्यां न विख्यातः स किम्भूतो भवतीत्याह--
दुव्वसुमुणी अणाणाए, तुच्छए गिलाति वत्तए ।
B॥१८६॥