________________
आचा. प्रदी.
BAERSIRSAR
यत एवं ततः किमित्याह -
सद्दे फासे अधियासमाणे णिव्विंद णदि इह जीवियस्स । मुणी मोणं समादाय धुणे कम्मसरीरगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो ।
एस ओघंतरे मुणी तिण्णे मुत्ते विरते वियाहिते ति बेमि (सू. १००) 'सद्दे फासे'त्ति यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति नापि दुष्टेषु द्वेष, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् 'अधियासमाणे त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवतिमनोज्ञान् शब्दान् श्रुतता न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणादितरेषामप्युपादानं द्रष्टव्यं, ततश्च शब्दादीन् विषयानभिसहमानः' किं कुर्यादित्याह-'णिबिंद णदिति इहोपदेशगोचरापनो विनेयोऽभिधीयते, निर्विदस्व-जुगुप्सस्त्र ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम्, इह मनुष्यलोके यजीवितमसंयमजीवितं तस्य या नन्दिस्तुष्टिः प्रमोदो यथा ममैतत् समृद्ध्यादिकमभूद्भवति भविष्यति चेत्येवं विकल्पजनितां नन्दी जुगुप्सस्त्र-यथा किमनया पापोपादानहेतुभृतयाऽस्थिरयेति ?
१. नतिसहमान:-पा० ।
॥१८५॥