________________
आचा०
प्रदी०
शरीरादेः परिग्रहात् साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयते । एतदेव स्पष्टयितुमाह--' जस्स णत्थि ममाइतं यस्य ममायितं स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति ।
किञ्च -- 'तं परिण्णाय'त्ति तं - पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी - ज्ञातज्ञेयो विदित्वा लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वंता लोग सण्णं' ति वान्त्वा - उद्गीर्य लोकस्य - प्राणिगणस्य संज्ञा - दशप्रकारात, इति मुनिः किम्भूतो ? मतिमान् - विवेकज्ञः सन् पराक्रमेथाः - संयमानुष्ठानोद्योगं सम्यग् विदध्याः, इतिः - अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् ।
स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किम्भूतो भवतीत्याह -- 'णारतिं ' इत्यादिश्लोकः, तस्य हि त्यक्तगृह - गृहिणी-धन - हिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदया दरतिः स्यात्, तामुत्पन्नां संयमविषयां न सहते -न क्षमते, कोऽसौ विशेषेणेरयति - प्रेरयत्यष्टप्रकारं कर्म अन्तरङ्गा रिषड्वर्ग वा वीरः शक्तिमान् स एव वीरोऽसंयमे विषये परिग्रहे वा या रतिरुत्पद्यते तां न सहते न मर्षयति, या चाऽरतिस्ताभ्यां विमनीभूतो न शब्दादिषु रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-- यस्माच्य क्रत्यरतिरविमना वीरस्तस्मात्कारणाद्वीरो न रज्यति-शब्दादिविषयग्रामे न गादूर्ध्य विदधाति ३ ॥९९॥
११२६
1182811