________________
आचा०
प्रदी०
स चैवं लालप्यमानः किम्भूतो भवतीत्याह- 'सएण 'त्ति यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन दुःखेन स्वकृत कर्मोदयजनितेन मूढः - परमार्थमजानानो विपर्यासमुपैति - सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह'सएण 'त्ति स्वकीयेनात्मना कृतेन प्रमादेन मद्यादिना विविधमिति मद्य-विषय- कषाय-विकथा - निद्राणां स्वभेदग्रहणं, पृथग - विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण वयन्ते पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः - संसारस्तं करोति, एकैकस्मिन् काये दीर्घकालावस्थानं करोति, तस्मिंश्च संसारे प्राणिनः पीडयन्ते इति दर्शयितुमाह – 'जंसिमे' त्ति यस्मिन् चातुर्गतिकैसंसारे इमे - प्रत्यक्षाः प्राणाः - प्राणिनः प्रव्यथिताः - नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिराम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पापण्डिकैर्यत्याभासैश्चेति वा ।
यदि नाम प्राणिनः प्रव्यथितास्ततः किमित्याह – 'पडिलेहाए' एतस्मिन् संसारचक्रे स्वकृतकर्मफलेश्वराणां प्राणिनां गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुर्निश्चयेन नितरां क्रियन्ते नाना दुःखावस्था * जन्तवो येन तनिकरण निकार : शारीरमान पदुःखोत्पादनं तस्मै नो [कर्म] कुर्यात् येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति । एवञ्च सति किं भवतीत्याह-- 'एस परिण्णा पवुच्चति' येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा- एतत्तत्वतः परिज्ञानं प्रकर्षेणोच्यते प्रोच्यते । द्विविधयाऽपि परिज्ञया प्राणिनिकारपरिहारे सति किं भवतीत्याह-- 'कम्मोवसंती' कर्मणामुपशान्ति
१. चतुर्मतिक० ० । २. ०वस्थासु पा० । ३. प्राणिनि निकार० पा० ।
११२२६
॥ १८२ ॥