________________
आचा प्रदी०
सिया तत्थ एकयरं विप्परामुसति छसु अण्णयरंमि कप्पति । सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढे विपरियासमुवेति। सरण विप्पमाएण पुढो वयं पकुव्वति सिमे पाणा पव्वहिता।
पडिलेहाए णो णिकरणाए । एस परिण्णा पवुच्चति कम्मोवसंती (सू. ९८) स्यात्तत्र—कदाचित्तत्र पापारम्भे एकतरं-पृथिवीकायादिसमारम्भ विपरामृशति-पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वारं परामृशति-स षट्स्वन्यतरस्मिन् कल्पते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवतिपृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव | कल्पते, सर्वस्मिन्नेव वर्तत इति भावार्थः।
कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते एवं मन्यते-कुम्भकारशालोदकप्लावनद्रष्टान्तेनैककायसमारम्भकोऽपि भवत्यपरकायसमारम्भकः, किमर्थमेवंविधं पापकं कर्म समारभते ? तदुच्यते - 'सुहट्टी लालप्पमाणे' मुखेनार्थः सुखार्थः स विद्यते यस्यासौ मुखार्थी [स एवम्भूतः सनत्यर्थ] लपति पुनः पुनर्वा लपति-लालप्यते वाचा, कायेन धावन-वल्गनादिकाः कियाः करोति, मनसा च तत्साधनोपायांश्चिन्तयति, सुखार्थी
सन् कृष्यादिकर्मभिः पृथिवों समारभते, स्नानार्थमुदकं, तापनार्थमग्नि, धर्मापनोदार्थ वायु, आहारार्थी वनस्पति सकार्य जा वाऽसंयतः संयतो वा रससुखार्थी सचित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यम् ।
IAS-I-SA-AGAR
मा० १६
॥१८॥